वांछित मन्त्र चुनें
देवता: पवमानः सोमः ऋषि: अयास्यः छन्द: गायत्री स्वर: षड्जः

समी॒ सखा॑यो अस्वर॒न्वने॒ क्रीळ॑न्त॒मत्य॑विम् । इन्दुं॑ ना॒वा अ॑नूषत ॥

अंग्रेज़ी लिप्यंतरण

sam ī sakhāyo asvaran vane krīḻantam atyavim | induṁ nāvā anūṣata ||

पद पाठ

सम् । ई॒म् इति॑ । सखा॑यः । अ॒स्व॒र॒न् । वने॑ । क्रीळ॑न्तम् । अति॑ऽअविम् । इन्दु॑म् । ना॒वाः । अ॒नू॒ष॒त॒ ॥ ९.४५.५

ऋग्वेद » मण्डल:9» सूक्त:45» मन्त्र:5 | अष्टक:7» अध्याय:1» वर्ग:2» मन्त्र:5 | मण्डल:9» अनुवाक:2» मन्त्र:5


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अत्यविम्) अतिशय सबकी रक्षा करनेवाले (वने क्रीडन्तम्) अखिल ब्रह्माण्डरूप वन में क्रीडा करते हुए (इम् इन्दुम्) इस परमात्मा की (सखायः) उसके प्रिय स्तोता लोग (अस्वरन्) शब्दायमान होते हुए (नावाः समनूषत) उसकी रचित वेदवाणीयों से स्तुति करते हैं ॥५॥
भावार्थभाषाः - परमात्मा के ज्ञान का साधन मनुष्य के पास एकमात्र उसका स्तोत्र वेद ही है, अन्य कोई ग्रन्थ उसके पूर्णज्ञान का साधन नहीं ॥५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अत्यविम्) सर्वस्यातिरक्षकम् (वने क्रीडन्तम्) अखिलब्रह्माण्डरूपे वने क्रीडन्तम् (इम् इन्दुम्) अमुं परमात्मानं (सखायः) तदीयप्रियस्तोतारः (अस्वरन्) शब्दायमाना अभवन् भूत्वा च (नावाः समनूषत) तद्रचितवेदवाग्भिः उपतस्थिरे ॥५॥